त्वां तु कापुरुषं पापं विदुः सर्वे मनीषिणः |
असकृत्पापकर्माणं बालजीवितघातकम् ||
तस्मात्त्वमस्य पापस्य कर्मणः फलमाप्नुहि |
त्रीणि वर्षसहस्राणि चरिष्यसि महीमिमाम् ||
अप्राप्नुवन्क्वचित्काञ्चित्संविदं जातु केनचित् ||
निर्जनानसहायस्त्वं देशान्प्रविचरिष्यसि |
भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः ||
पूयशोणितगन्धी च दुर्गकान्तारसंश्रयः |
विचरिष्यसि पापात्मन्सर्वव्याधिसमन्वितः ||